मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९५, ऋक् ६

संहिता

या सु॑जू॒र्णिः श्रेणि॑ः सु॒म्नआ॑पिर्ह्र॒देच॑क्षु॒र्न ग्र॒न्थिनी॑ चर॒ण्युः ।
ता अ॒ञ्जयो॑ऽरु॒णयो॒ न स॑स्रुः श्रि॒ये गावो॒ न धे॒नवो॑ऽनवन्त ॥

पदपाठः

या । सु॒ऽजू॒र्णिः । श्रेणिः॑ । सु॒म्नेऽआ॑पिः । ह्र॒देऽच॑क्षुः । न । ग्र॒न्थिनी॑ । च॒र॒ण्युः ।
ताः । अ॒ञ्जयः॑ । अ॒रु॒णयः॑ । न । स॒स्रुः॒ । श्रि॒ये । गावः॑ । न । धे॒नवः॑ । अ॒न॒व॒न्त॒ ॥

सायणभाष्यम्

पुरूरवसो वाक्यम्। या सजूर्णिः सुजवैतन्नामिकास्ति तथा या श्रेणिर्या सुम्न आपिर्या ह्रदेचक्षुः। नकरः समुच्छये। ताभिश्च तसृभिरालिभूताभिर्मानिनीभिः सहिता ग्रन्थिनी ग्रन्थनवती सन्दर्भवती चरुण्युश्चरणशीलोर्वश्याजगाम। यद्वा। ग्रन्तिह्नीत्येतत्सखिभुताप्सरोनामधेयम्। या सुजूर्णिः सुजवोर्वशी सा ताभिः सह जगाम। ता अप्सरसोऽञ्जय आभरणोपेता अरुणयोऽरुणवर्णा न सस्रुः। पूर्ववन्नगच्छन्ति। श्रिये श्रयणाय धेनवो नवप्रसूता गावो न गाव इव। आश्रयार्थं यथा गावोऽनवन्त शब्दायन्ते तथ न शब्दयन्तीति व्यतिरेके दृष्टान्तः॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः