सु॒दे॒वो अ॒द्य प्र॒पते॒दना॑वृत्परा॒वतं॑ पर॒मां गन्त॒वा उ॑ ।
अधा॒ शयी॑त॒ निरृ॑तेरु॒पस्थेऽधै॑नं॒ वृका॑ रभ॒सासो॑ अ॒द्युः ॥
सु॒ऽदे॒वः । अ॒द्य । प्र॒ऽपते॑त् । अना॑वृत् । प॒रा॒ऽवत॑म् । प॒र॒माम् । गन्त॒वै । ऊं॒ इति॑ ।
अध॑ । शयी॑त । निःऽऋ॑तेः । उ॒पऽस्थे॑ । अध॑ । ए॒न॒म् । वृकाः॑ । र॒भ॒सासः॑ । अ॒द्युः ॥
अथ परिदूनः पुरूरवा उवाच। सुदेवस्त्वया सह सुक्रीडः पतिरद्यप्रपतेत्। अत्रैव प्रपततु। अथवानावृदनावृत्तः सन् परमां परावतम् दूरादपि दूरदेशं गन्तवै गन्तुं महाप्रस्थानगमनं कुर्यात्। अधाथवा यत्रकुत्रापि गन्तुं समर्थो निरृतेः पृथिव्या उपस्थे शयित। शयनं कुर्यात्। यद्वा। निरृतिः पापदेवता। तस्या उपस्थ उत्सङ्गे सन्निधौ म्रियतामित्यर्थः। अधाथवैनं वृका आरण्याः श्वानो रभसासो वेगवन्तोऽद्युः । भक्षान्तु। अत्र वाजसनेयकम्। सुदेवोऽद्योद्वा बध्नीत प्र वा पतेत्तदेनं वृका वा श्वानो वाद्युरिति हैव तदुवाच। शत. ११-५-१-८। इति॥१४॥