मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९५, ऋक् १७

संहिता

अ॒न्त॒रि॒क्ष॒प्रां रज॑सो वि॒मानी॒मुप॑ शिक्षाम्यु॒र्वशीं॒ वसि॑ष्ठः ।
उप॑ त्वा रा॒तिः सु॑कृ॒तस्य॒ तिष्ठा॒न्नि व॑र्तस्व॒ हृद॑यं तप्यते मे ॥

पदपाठः

अ॒न्त॒रि॒क्ष॒ऽप्राम् । रज॑सः । वि॒ऽमानी॑म् । उप॑ । शि॒क्षा॒मि॒ । उ॒र्वशी॑म् । वसि॑ष्ठः ।
उप॑ । त्वा॒ । रा॒तिः । सु॒ऽकृ॒तस्य॑ । तिष्ठा॑त् । नि । व॒र्त॒स्व॒ । हृद॑यम् । त॒प्य॒ते॒ । मे॒ ॥

सायणभाष्यम्

अन्तरिक्षप्राम् स्वतेजसान्तरिक्षस्य पुरयित्रीं तथा रजसो रञ्जकस्योदकस्य विमानीं निर्मात्रीमुर्वशीं वसिष्ठः समानानां मध्येऽतिशयेन वासयिताहमुपशिक्षामि। वशं नयामि। सुकृतस्य शोभनकर्मणॊ रातिर्दाता पुरूरवास्त्वा त्वामुपतिष्ठात्। उपतिष्ठतु। मे हृदयं तप्यते। अतो नि वर्तस्व। एवं राजोवाच॥१७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः