मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९७, ऋक् ५

संहिता

अ॒श्व॒त्थे वो॑ नि॒षद॑नं प॒र्णे वो॑ वस॒तिष्कृ॒ता ।
गो॒भाज॒ इत्किला॑सथ॒ यत्स॒नव॑थ॒ पूरु॑षम् ॥

पदपाठः

अ॒श्व॒त्थे । वः॒ । नि॒ऽसद॑नम् । प॒र्णे । वः॒ । व॒स॒तिः । कृ॒ता ।
गो॒ऽभाजः॑ । इत् । किल॑ । अ॒स॒थ॒ । यत् । स॒नव॑थ । पुरु॑षम् ॥

सायणभाष्यम्

हे ओषधिदेवताः वो युश्माकमश्वत्थे निषदनं नितरां व्र्तनम्। तथा वो युष्माकं पर्णे पलाशे वसतिर्निवासः कृता। तृतीयस्यामितो दिवि सोम आसीत्तं गायत्र्याहरत्तस्य पर्णमच्छिद्यत तत्पर्णोऽभवत् तत्पर्णस्य पर्णत्वमिति। तै. ब्रा. १-१-३-१०। ब्राह्मणात्पलाशस्य पर्णत्वप्रसिद्धिः। अश्वत्थपलाशयोर्यज्ञयोग्यत्वप्रधान्यापेक्शयोपादानम्। किञ्च गोभाज इत्किल गवां भाजयित्र्य एवासथ। भवथ खलु। यद्यदि सनवथ सम्भजध्वे पुरुशं तर्ह्येवं भवथेति। वन षन सम्भक्तौ। लेट्यडागमः। ब्यत्ययेनोप्रत्ययः। यद्वा। औत्सर्गिकः शप्चेति द्विविकरनता॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः