मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९७, ऋक् ७

संहिता

अ॒श्वा॒व॒तीं सो॑माव॒तीमू॒र्जय॑न्ती॒मुदो॑जसम् ।
आवि॑त्सि॒ सर्वा॒ ओष॑धीर॒स्मा अ॑रि॒ष्टता॑तये ॥

पदपाठः

अ॒श्व॒ऽव॒तीम् । सो॒म॒ऽव॒तीम् । ऊ॒र्जय॑न्तीम् । उत्ऽओ॑जसम् ।
आ । अ॒वि॒त्सि॒ । सर्वाः॑ । ओष॑धीः । अ॒स्मै । अ॒रि॒ष्टऽता॑तये ॥

सायणभाष्यम्

अश्वावत्यादयः प्रधानभुता ओषधयश्चतस्रः। ताः सर्वा ओषधीरावित्सि। आजाने। स्त्ॐईत्यर्थः। अस्मा अरिष्टतातये। आमुं रोगम् विनाशयितुमित्यर्थः॥७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः