मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९७, ऋक् १०

संहिता

अति॒ विश्वा॑ः परि॒ष्ठाः स्ते॒न इ॑व व्र॒जम॑क्रमुः ।
ओष॑धी॒ः प्राचु॑च्यवु॒र्यत्किं च॑ त॒न्वो॒३॒॑ रपः॑ ॥

पदपाठः

अति॑ । विश्वाः॑ । प॒रि॒ऽस्थाः । स्ते॒नःऽइ॑व । व्र॒जम् । अ॒क्र॒मुः॒ ।
ओष॑धीः । प्र । अ॒चु॒च्य॒वुः॒ । यत् । किम् । च॒ । त॒न्वः॑ । रपः॑ ॥

सायणभाष्यम्

विश्वा व्याप्ताः परिश्ठा परितः स्थिता ओषधयोऽत्यक्रमुः। व्याधीनतिक्रान्तवत्यः। स्तेन इव व्रजम्। यथा स्तेनो व्रजमत्यक्रमीत् तद्वत्। तथा कृत्वौषधीरोषधयः प्राचुच्यवुः प्राच्यावयन्ति यत्किं च तन्वो रुग्णशरीरस्य रपः पापं व्याधिलक्शणमस्ति तदिति॥१०॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः