मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९७, ऋक् १४

संहिता

अ॒न्या वो॑ अ॒न्याम॑वत्व॒न्यान्यस्या॒ उपा॑वत ।
ताः सर्वा॑ः संविदा॒ना इ॒दं मे॒ प्राव॑ता॒ वचः॑ ॥

पदपाठः

अ॒न्या । वः॒ । अ॒न्याम् । अ॒व॒तु॒ । अ॒न्या । अ॒न्यस्याः॑ । उप॑ । अ॒व॒त॒ ।
ताः । सर्वाः॑ । स॒म्ऽवि॒दा॒नाः । इ॒दम् । मे॒ । प्र । अ॒व॒त॒ । वचः॑ ॥

सायणभाष्यम्

हे ओषधयः वो युश्माकं मध्येऽन्यौशधिरन्यामोषधिमवतु। प्राप्नोतु। अवतिरत्र गथर्थः। तथान्यान्यस्याः समीपमुपावत। उपगच्छत। एवं याः सन्ति क्शित्यामोषधयः ताः सर्वाः संविदानाः परस्परमैकमत्यं प्राप्ताः सत्य इदं मे मदीयं वचः प्रार्थनालक्षणं वचनं प्रावत। प्ररक्षत॥१४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०