मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९७, ऋक् १७

संहिता

अ॒व॒पत॑न्तीरवदन्दि॒व ओष॑धय॒स्परि॑ ।
यं जी॒वम॒श्नवा॑महै॒ न स रि॑ष्याति॒ पूरु॑षः ॥

पदपाठः

अ॒व॒ऽपत॑न्तीः । अ॒व॒द॒न् । दि॒वः । ओष॑धयः । परि॑ ।
यम् । जी॒वम् । अ॒श्नवा॑महै । न । सः । रि॒ष्या॒ति॒ । पुरु॑षः ॥

सायणभाष्यम्

चिवो द्युलोकादवपतन्तीरवपतन्त्य ओषधय इत्थं पर्यवदन्। किमिति उच्यते। यं जीवं जीवन्तमश्नवामहै व्याप्नुमो न स पूरुषः पुरुषो रिष्याति। रिश्यति। विनश्यति॥१७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११