मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९९, ऋक् ४

संहिता

स य॒ह्व्यो॒३॒॑ऽवनी॒र्गोष्वर्वा जु॑होति प्रध॒न्या॑सु॒ सस्रि॑ः ।
अ॒पादो॒ यत्र॒ युज्या॑सोऽर॒था द्रो॒ण्य॑श्वास॒ ईर॑ते घृ॒तं वाः ॥

पदपाठः

सः । य॒ह्व्यः॑ । अ॒वनीः॑ । गोषु॑ । अर्वा॑ । आ । जु॒हो॒ति॒ । प्र॒ऽध॒न्या॑सु । सस्रिः॑ ।
अ॒पादः॑ । यत्र॑ । युज्या॑सः । अ॒र॒थाः । द्रो॒णिऽअ॑श्वासः । ईर॑ते । घृ॒तम् । वारिति॒ वाः ॥

सायणभाष्यम्

स इन्द्रोऽर्वा मेघेष्वभिगन्ता सस्रिः सरनकुशलः प्रधन्यासु प्रकृष्टधननिमित्तासु गोषु भूमिषु यह्व्यः। महन्नामैतत्। महतीरवनीः। अवन्तीत्यवनय आपः। ता आ जुहोति। आक्षिपति। यत्र यासु भूमिष्वपादः पादरहिता अरथा रथवर्जिताः। पादरहिताः केचन रथेन गच्छन्ति। केनापि शून्या द्रोण्यश्वासो द्रुतव्यापना युज्यासो युज्या इन्द्रस्य सख्यो नद्यो वार्वारकं घृतमुदकमीरते प्रेरयन्ति तत्राजुहोति॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४