मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९९, ऋक् ७

संहिता

स द्रुह्व॑णे॒ मनु॑ष ऊर्ध्वसा॒न आ सा॑विषदर्शसा॒नाय॒ शरु॑म् ।
स नृत॑मो॒ नहु॑षो॒ऽस्मत्सुजा॑त॒ः पुरो॑ऽभिन॒दर्ह॑न्दस्यु॒हत्ये॑ ॥

पदपाठः

सः । द्रुह्व॑णे । मनु॑षे । ऊ॒र्ध्व॒सा॒नः । आ । सा॒वि॒ष॒त् । अ॒र्श॒सा॒नाय॑ । शरु॑म् ।
सः । नृऽत॑मः । नहु॑षः । अ॒स्मत् । सुऽजा॑तः । पुरः॑ । अ॒भि॒न॒त् । अर्ह॑न् । द॒स्यु॒ऽहत्ये॑ ॥

सायणभाष्यम्

स इन्द्रो द्रुह्वणे द्रुह्वणाय दृढं शत्रुभिर्ह्वातव्याय मनुषे मनुष्याय योद्ध्रे स्वभक्तायोर्ध्वसानः। ऊर्ध्व उच्छ्रितः शौर्यादिभिर्गुणैरधिकः सन् स्यति शत्रूणामन्तम् करोतीत्यूर्ध्वसः। स इवाचरन्। ऊर्ध्वसशब्दादाचारार्थे क्विबन्ताच्छानच्। अर्शसानाय शत्रूणां हिंसित्रे शरुं हिंसकमायुधमा साविशत्। आभिमुइख्येन प्रसौति। यच्छति। यद्वा। द्रुह्वणे मनुषे द्रोग्धव्याय मनुष्यायार्शसानाय स्वभक्तहिंसित्रे तस्य वधार्थमूर्ध्वसानः सञ्शरुमा साविशत्। वज्रं प्रेरयति। स एवेन्द्रो नहुषो मनुश्यान्नृतमो मनुष्याणां नेतृतमः सङ्ग्रामे शूराणां गमयितृतमः। यद्वा नृतमो नहुशो बन्धकश्च। अस्मदस्मदर्थं सुजातः सुष्ठु प्रादुर्भूतोऽर्हन् पूज्यः सन् दस्युहत्ये। दस्यव उपक्शपयितारः शत्रवः। तेषां हत्यं हननं यस्मिन् तादृशे सङ्ग्रामे पुरह् शत्रूणां शरीराण्यभिनत्। भिन्नवान्॥७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५