मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९९, ऋक् १०

संहिता

अ॒यं द॑श॒स्यन्नर्ये॑भिरस्य द॒स्मो दे॒वेभि॒र्वरु॑णो॒ न मा॒यी ।
अ॒यं क॒नीन॑ ऋतु॒पा अ॑वे॒द्यमि॑मीता॒ररुं॒ यश्चतु॑ष्पात् ॥

पदपाठः

अ॒यम् । द॒श॒स्यन् । नर्ये॑भिः । अ॒स्य॒ । द॒स्मः । दे॒वेभिः॑ । वरु॑णः । न । मा॒यी ।
अ॒यम् । क॒नीनः॑ । ऋ॒तु॒ऽपाः । अ॒वे॒दि॒ । अमि॑मीत । अ॒ररु॑म् । यः । चतुः॑ऽपात् ॥

सायणभाष्यम्

अयमिन्द्रो दशस्यन् स्तोतृभ्यो धनं प्रयच्छन्। दशस्यतिर्दानकर्मा। नर्येभिर्नयैर्नृहितैर्मरुद्भिरस्य अस्यति। छान्दसस्तिपो लोपः। यद्वा। व्यत्ययेन लोण्मध्यमः। तथा देवेभिर्द्योतमानैः स्वतेजोभिर्दस्मो दर्शनीयो वरुणो न वरुण इद। वरुणस्तमोवारक आदित्यो वरुण एव वा। स इव मायी मायावान्। तथायं कनीनः कमनीय ऋतुपा ऋतौ पातावेदि। अज्ञायि। तथाररुमसुरमेतन्नामानममिमी अमिनात्। योऽररुश्चतुष्पात् पाचचतुष्टयोपेतः। मीङ् हिंसायाम् । लङि बहुलं छन्दसीति विकरणस्य श्लुः॥१०॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५