मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९९, ऋक् ११

संहिता

अ॒स्य स्तोमे॑भिरौशि॒ज ऋ॒जिश्वा॑ व्र॒जं द॑रयद्वृष॒भेण॒ पिप्रो॑ः ।
सुत्वा॒ यद्य॑ज॒तो दी॒दय॒द्गीः पुर॑ इया॒नो अ॒भि वर्प॑सा॒ भूत् ॥

पदपाठः

अ॒स्य । स्तोमे॑भिः । औ॒शि॒जः । ऋ॒जिश्वा॑ । व्र॒जम् । द॒र॒य॒त् । वृ॒ष॒भेण॑ । पिप्रोः॑ ।
सुत्वा॑ । यत् । य॒ज॒तः । दी॒दय॑त् । गीः । पुरः॑ । इ॒या॒नः । अ॒भि । वर्प॑सा । भूत् ॥

सायणभाष्यम्

अश्येन्द्रय सोत्मेभिः स्तोत्रैरौशिज उशिजः पुत्र ऋजिश्वैतन्नामा वृशभेण वज्रेण व्रुषभेण वा युक्तं व्रजं गोष्थं पिप्रोरेतन्नामकस्यासुरस्य सम्बन्धिनं तेनापहृत्य पालितं दरयत्। अदारयत्। यद्यदा सुत्वा सोमस्य सोता। सुयजोर्ङ्वनिबिति वनिप्। ह्रस्यस्य पितीति तुक्। यजतो यश्टौशिजो गीः स्तुतिवाचो दीदयत् दीपितवान्। तथा यद्यदेयानो गच्छन् पुरः शत्रुपुराणि। यद्वा। पुरः पुर इव सङ्घीभूतानि पापानि। अभि भुत्। अभिभवति। केन साधनेन। वर्पसा। रूपनामैतत्। रूपेणेन्द्रानुगृहीतेन। यदैवमकरोत् तदा व्रजं दरयदिति सम्बन्धः॥११॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५