मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १००, ऋक् ८

संहिता

अपामी॑वां सवि॒ता सा॑विष॒न्न्य१॒॑ग्वरी॑य॒ इदप॑ सेध॒न्त्वद्र॑यः ।
ग्रावा॒ यत्र॑ मधु॒षुदु॒च्यते॑ बृ॒हदा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥

पदपाठः

अप॑ । अमी॑वाम् । स॒वि॒ता । सा॒वि॒ष॒त् । न्य॑क् । वरी॑यः । इत् । अप॑ । से॒ध॒न्तु॒ । अद्र॑यः ।
ग्रावा॑ । यत्र॑ । म॒धु॒ऽसुत् । उ॒च्यते॑ । बृ॒हत् । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥

सायणभाष्यम्

सविता सर्वस्य प्रेरकः सवितृतेदतास्माकं सम्बन्धिनममीवां रोगमप साविषत्। अपप्रेरयतु। अपगमयत्वित्यर्थः। तथा वरीय इदुरुतरमपि पापं न्यग्नीचीनमप सेधन्त्वद्रयः पर्वताभिमानिनो देवा अभिशवाश्मानो वा। एतत्सर्वं कुत्र भवत्विति चेत् उच्यते। यत्र यस्मिन्प्रदेशे यस्मिन्यागे वा मधुरस्य सोमस्य सोता ग्रावा बृहत्प्रवृद्धमुच्यते स्तूयते तत्र॥८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७