मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०३, ऋक् ७

संहिता

अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानोऽद॒यो वी॒रः श॒तम॑न्यु॒रिन्द्र॑ः ।
दु॒श्च्य॒व॒नः पृ॑तना॒षाळ॑यु॒ध्यो॒३॒॑ऽस्माकं॒ सेना॑ अवतु॒ प्र यु॒त्सु ॥

पदपाठः

अ॒भि । गो॒त्राणि॑ । सह॑सा । गाह॑मानः । अ॒द॒यः । वी॒रः । श॒तऽम॑न्युः । इन्द्रः॑ ।
दुः॒ऽच्य॒व॒नः । पृ॒त॒ना॒षाट् । अ॒यु॒ध्यः । अ॒स्माक॑म् । सेनाः॑ । अ॒व॒तु॒ । प्र । यु॒त्ऽसु ॥

सायणभाष्यम्

अयमिन्द्रो गोत्राण्यभ्राणि मेघान् सहसा बलेनाभि गाहमानः प्रविशन्नरयो निर्दयो वीरो विक्रान्तः शतमन्युर्बहुयज्ञो बहुक्रोधो वा दुश्च्यवनोऽन्यैरचाल्यः। स्वयं पृतनाषाट् शत्रुसेनानामभिभविता। छन्दसि सह इति ण्विः। सहेः साडः स इति मूर्धन्यादेशः। अयुध्यः सम्प्रहर्तुमशक्यः। युध सम्प्रहारे। छान्दसः क्यप्। ईदृगिन्द्रोऽस्माकं सेना युत्सु सङ्ग्रामेषु प्रावतु। प्रकर्षेण रक्षतु॥७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३