मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०३, ऋक् ११

संहिता

अ॒स्माक॒मिन्द्र॒ः समृ॑तेषु ध्व॒जेष्व॒स्माकं॒ या इष॑व॒स्ता ज॑यन्तु ।
अ॒स्माकं॑ वी॒रा उत्त॑रे भवन्त्व॒स्माँ उ॑ देवा अवता॒ हवे॑षु ॥

पदपाठः

अ॒स्माक॑म् । इन्द्रः॑ । सम्ऽऋ॑तेषु । ध्व॒जेषु॑ । अ॒स्माक॑म् । याः । इष॑वः । ताः । ज॒य॒न्तु॒ ।
अ॒स्माक॑म् । वी॒राः । उत्ऽत॑रे । भ॒व॒न्तु॒ । अ॒स्मान् । ऊं॒ इति॑ । दे॒वाः॒ । अ॒व॒त॒ । हवे॑षु ॥

सायणभाष्यम्

अस्माकं सम्बन्धिष्टेव समृतेषु परसेनाम् सम्प्राप्तेशु ध्वजेशु ध्वजवत्सु सैनिकेष्विन्द्रो रक्षिता भवतु। तथास्माकं या इषवः सन्ति ता एव जयन्तु शत्रून्। तथास्माकम् । वीरा भटा उत्तर उपरि भवन्तु। हे देवा अस्मा उ अस्मानेवावत रक्षत हवेषु सङ्ग्रामेषु॥११॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३