मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०३, ऋक् १२

संहिता

अ॒मीषां॑ चि॒त्तं प्र॑तिलो॒भय॑न्ती गृहा॒णाङ्गा॑न्यप्वे॒ परे॑हि ।
अ॒भि प्रेहि॒ निर्द॑ह हृ॒त्सु शोकै॑र॒न्धेना॒मित्रा॒स्तम॑सा सचन्ताम् ॥

पदपाठः

अ॒मीषा॑म् । चि॒त्तम् । प्र॒ति॒ऽलो॒भय॑न्ती । गृ॒हा॒ण । अङ्गा॑नि । अ॒प्वे॒ । परा॑ । इ॒हि॒ ।
अ॒भि । प्र । इ॒हि॒ । निः । द॒ह॒ । हृ॒त्ऽसु । शोकैः॑ । अ॒न्धेन॑ । अ॒मित्राः॑ । तम॑सा । स॒च॒न्ता॒म् ॥

सायणभाष्यम्

हे अप्वे पापाभिनानिनि देवते अमीषां योद्धॄणां शत्रूणां दित्तं प्रतिलोभयन्ती विमोहयन्त्यङ्गानि तेषामवयवाञ्शरादिकान्ग्रुहान। स्वीकुरु। अभिप्रेहि। अभिगच्छ। तेषां समीपं गत्वा च हृत्सु हृदयेषु शोकैर्निर्दह। नितरां भस्मीकुरु। तेऽमित्रा अस्मच्छत्रवोऽन्धेन तमसा सचन्ताम्। तङ्गच्छन्ताम्॥१२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३