मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०४, ऋक् २

संहिता

अ॒प्सु धू॒तस्य॑ हरिव॒ः पिबे॒ह नृभि॑ः सु॒तस्य॑ ज॒ठरं॑ पृणस्व ।
मि॒मि॒क्षुर्यमद्र॑य इन्द्र॒ तुभ्यं॒ तेभि॑र्वर्धस्व॒ मद॑मुक्थवाहः ॥

पदपाठः

अ॒प्ऽसु । धू॒तस्य॑ । ह॒रि॒ऽवः॒ । पिब॑ । इ॒ह । नृऽभिः॑ । सु॒तस्य॑ । ज॒ठर॑म् । पृ॒ण॒स्व॒ ।
मि॒मि॒क्षुः । यम् । अद्र॑यः । इ॒न्द्र॒ । तुभ्य॑म् । तेभिः॑ । व॒र्ध॒स्व॒ । मद॑म् । उ॒क्थ॒ऽवा॒हः॒ ॥

सायणभाष्यम्

प्रथमे पर्याये ब्राह्मणाच्छंसिशस्त्रेऽप्सु धुतस्येत्येशा याज्या। सूत्रितं च। अप्सु धूतस्य हरिवः पिबेहेति याज्या। आ. ६-४। इति॥

हे हरिवः ऋक्सामे वा इन्द्रस्य हरी। ऐ. ब्रा. २-२४। इति श्रुतेः स्तोत्रशस्त्राधारभुताभ्यामृक्सामाभ्यां हरिभ्यां तद्वन्निन्द्र अप्स्वेकधानादिषुदकेषु धुतस्य कम्पितस्य। अभिषुतस्येत्यर्थः। तथा नृभिः कर्मनेतृभिः कर्मनिर्वाहकैरध्वर्य्वादिभिः सुतस्याभिषुतस्य। उभयत्र क्रियाग्रहनं कर्तव्यमिति कर्मण सम्प्रदानसंज्ञायां चतुर्थ्यर्थे बहुलं छन्दसीति षष्ठी। ईदृशं सोममिहास्मिन्यज्ञे पिब। पीत्वा च जठरं स्वकीयं पृणस्व। पुरय च। चादिलोपे विभाषॆति प्रथमा तिङ्विभक्तिर्ननिहन्यते। यं सोममद्रयोऽभिषवग्रावाणो हे इन्द्र तुभ्यं त्वदर्थं मिमिक्षुः सेक्तुमभिषोतुमैच्छन्। अभिषवमकुर्वन्नित्यर्थः। मिह सेचन इत्यस्य सनि लिङ्युसि रुपम्। हे उक्थवाह उक्थैह् शस्त्रैरुह्यमान तेभिस्तैर्मदं वर्धस्व॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४