मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०४, ऋक् ८

संहिता

स॒प्तापो॑ दे॒वीः सु॒रणा॒ अमृ॑क्ता॒ याभि॒ः सिन्धु॒मत॑र इन्द्र पू॒र्भित् ।
न॒व॒तिं स्रो॒त्या नव॑ च॒ स्रव॑न्तीर्दे॒वेभ्यो॑ गा॒तुं मनु॑षे च विन्दः ॥

पदपाठः

स॒प्त । आपः॑ । दे॒वीः । सु॒ऽरणाः॑ । अमृ॑क्ताः । याभिः॑ । सिन्धु॑म् । अत॑रः । इ॒न्द्र॒ । पूः॒ऽभित् ।
न॒व॒तिम् । स्रो॒त्याः । नव॑ । च॒ । स्रव॑न्तीः । दे॒वेभ्यः॑ । गा॒तुम् । मनु॑षे । च॒ । वि॒न्दः॒ ॥

सायणभाष्यम्

हे इन्द्र त्वदाज्ञया सप्तैतत्सङ्ख्याका आपोऽब्रूपा देवीर्देव्यो गङ्गाद्याह् सुरणाह् सुष्ठु रममाणाः शोभनशब्दा वा। रणिः शब्दार्थः। वशिरण्योरुपसङ्ख्यानम्। पा. ३-३-५८-३। इति भावेऽप्। बहुव्रीहावाद्युदात्तं द्व्यच्छन्दसीत्युत्तरपदाद्युदात्तत्वम्। अमृक्ता अहिंसिताः प्रवहन्तिति शेषः। हे इन्द्र पूर्भित् पुरां भेत्ता त्वं याभिर्गंगादिभिः सप्तनदीभिः सिन्धुं समुद्रमतरः। प्रावर्धय इत्यर्थः। यद्वा। सप्त सर्पणस्वभावा उक्तलक्षणा आपो देव्यस्त्वया सृष्टाः प्रवहन्ति याभिः सिन्धुं नदीमतरः। किञ्च त्वं नवतिं नव च नवोत्तरनवतिसङ्ख्याकाह् स्रवन्तीः प्रवहन्तीः स्रोत्याः। नदीनामैतत्। नदीर्देवेभ्यो हविरर्थं मनुषे मनुष्याय भोगार्थं च गातुं गन्तव्यं तासां मार्गं च विन्दः। आलभथाः॥८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५