मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०४, ऋक् ९

संहिता

अ॒पो म॒हीर॒भिश॑स्तेरमु॒ञ्चोऽजा॑गरा॒स्वधि॑ दे॒व एकः॑ ।
इन्द्र॒ यास्त्वं वृ॑त्र॒तूर्ये॑ च॒कर्थ॒ ताभि॑र्वि॒श्वायु॑स्त॒न्वं॑ पुपुष्याः ॥

पदपाठः

अ॒पः । म॒हीः । अ॒भिऽश॑स्तेः । अ॒मु॒ञ्चः॒ । अजा॑गः । आ॒सु॒ । अधि॑ । दे॒वः । एकः॑ ।
इन्द्र॑ । याः । त्वम् । वृ॒त्र॒ऽतूर्ये॑ । च॒कर्थ॑ । ताभिः॑ । वि॒श्वऽआ॑युः । त॒न्व॑म् । पु॒पु॒ष्याः॒ ॥

सायणभाष्यम्

हे इन्द्र महीर्महतीरप उदकान्यभिशस्तेरभिशंसकाद्वृत्रादमुञ्चः। आसु मुक्तास्वप्सु देवस्त्वमेक एक एवासहायः सन्नध्यजागः। अप्रमतो भवसि। यद्व अधीति सप्तम्यर्थानुवादी। हे इन्द्र त्वं या अपो वृत्रतूर्ये व्रुत्रहत्यायां चकर्थ करोषि ताभिरद्भिर्विश्वाभिः सर्वाभिस्त्वं तनुं स्वकीयं शरीरं पुपुष्याः। पोषयेः। पुष पुष्तावित्यस्य व्यत्ययेन श्लुः॥९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५