मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०६, ऋक् ७

संहिता

प॒ज्रेव॒ चर्च॑रं॒ जारं॑ म॒रायु॒ क्षद्मे॒वार्थे॑षु तर्तरीथ उग्रा ।
ऋ॒भू नाप॑त्खरम॒ज्रा ख॒रज्रु॑र्वा॒युर्न प॑र्फरत्क्षयद्रयी॒णाम् ॥

पदपाठः

प॒ज्राऽइ॑व । चर्च॑रम् । जार॑म् । म॒रायु॑ । क्षद्म॑ऽइव । अर्थे॑षु । त॒र्त॒री॒थः॒ । उ॒ग्रा॒ ।
ऋ॒भू इति॑ । न । आ॒प॒त् । ख॒र॒म॒ज्रा । ख॒रऽज्रुः॑ । वा॒युः । न । प॒र्फ॒र॒त् । क्ष॒य॒त् । र॒यी॒णाम् ॥

सायणभाष्यम्

हे उग्रोग्रावुद्गूर्णतेजस्कावश्विनौ पज्रेव पज्राविव प्रार्जितबलौ वीराविव स्थितौ। यद्वा। पज्रेव। जि ज्रि अभिभवे। पादाभ्यामभिभवन्तौ समर्थाविव स्थितौ। युवां चर्चरम् चरणशीलं जारं जरायुक्तं अत एव मरायु मरणशीलं मदीयं शरीरमर्थेषु गन्तव्येषु तरितव्येष्वापदादिषु क्षद्मेव। उदकनामैतत्। उदकमिव तर्तरिथः। अत्यन्तं तारयथः । तॄ प्लवनतरनयोः। यङ् लुगन्ताल्लटि च्छन्दस्युभयथेति थस आर्धधातुकत्वेनेडागमः। वॄतो वा। पा. ७-२-३८। इति दीर्घः। ऋभू नर्भू इव। दार्ष्टान्तिकसाम्यादत्र द्विवचनम्। ऋभू यथा स्वनिर्मितो रथ आपत् तद्वत् खरमज्रा खरं तीक्ष्णम् मज्जयितारौ शोधयितारौ। अत्यन्तं शुद्धबलावित्यर्थः। टुमस्जो शुद्धौ। अस्मादौणादिको रप्रत्ययः। तादृशौ युवां खरज्रुस्तीक्ष्णगतिरतिशयेन वेगवानृभुभिर्दत्तो रथो युवामापत्। आप्नोत्। आप्लृ व्याप्तौ। लुङि लृदित्त्वाच्च्लेरङ्। स रथो वायुरिव पर्फरत्। सर्वत्रापुरयत्। सर्वत्र व्याप्तवानित्यर्थः। फर्व पूरने। अस्माल्लेटि बहुलं छन्दसिति शपः श्लुः। अभ्यासस्य रुगागमो वलोपश्च। लेटोऽडाटावित्यडागमः। ततह् स रथो रयीणां धनानां धनानि क्शयत्। शत्रुभ्य आगमयत्। क्शि निवासगत्योः। अस्मादन्तर्णीतण्यर्थाल्लेट्यडागमः। यद्वा। क्षयतिरैश्वर्यकर्मा। धनानामीष्टे। छान्दसमनुदात्तत्वम्॥७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः