मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०७, ऋक् ३

संहिता

दैवी॑ पू॒र्तिर्दक्षि॑णा देवय॒ज्या न क॑वा॒रिभ्यो॑ न॒हि ते पृ॒णन्ति॑ ।
अथा॒ नर॒ः प्रय॑तदक्षिणासोऽवद्यभि॒या ब॒हवः॑ पृणन्ति ॥

पदपाठः

दैवी॑ । पू॒र्तिः । दक्षि॑णा । दे॒व॒ऽय॒ज्या । न । क॒व॒ऽअ॒रिभ्यः॑ । न॒हि । ते । पृ॒णन्ति॑ ।
अथ॑ । नरः॑ । प्रय॑तऽदक्षिणासः । अ॒व॒द्य॒ऽभि॒या । ब॒हवः॑ । पृ॒ण॒न्ति॒ ॥

सायणभाष्यम्

दैवी देवसम्बन्धिनी। देवाद्यञञौ। पा. ४-१-८५-३। इत्यञ्। तादृशी पूर्तिः पालिनी तत्साध्या देवयज्या। छन्दसि निष्टर्क्येति नोपातितः। देवयागः तदङ्गभूता दक्षिणा न कवारिभ्यः। ऋ गतावित्यस्याच इः। उ. ४-१३८। इतीप्रत्ययः। कुत्सितगन्तृभ्योऽयष्टृभ्यः। एतेभ्यो न भवति। यद्वा। देवानां स्वभूता पूर्तिः पूरयित्री स्तुतिभिर्हविर्भिश्च तादृशी देवयज्या दक्षिणा च तेभ्यो न भवतः। तत्र हेतुरुच्यते। हि यस्मात्ते कुत्सितगन्तारो नहि पृणन्ति देवान्स्तुतिभिर्हविर्भिवा न प्रीणयन्ति। पृण् प्रीणने तौदादिकः। अथेति प्रश्ने। यष्टॄणां देवयागादि कथं भवति। उच्यते। नरः कर्माणां नेतारः अत एव प्रयतदक्शिणासो दत्तदक्षिणा बह्वओ यजमाना अवद्यभिया। अवद्यपण्यवर्या गर्ह्येति। पा. ३-१-१०१। यत्प्रत्ययान्तत्वेन निपातितः। पापभिया। विहिताननुष्ठाने दुरितानि भवन्ति खलु। तस्मात्तद्भीत्या पृणन्ति। देवान्प्रीणयन्ति। तस्माद्यश्टॄणाम् देवपालनयागदक्षिणा भवतीत्यर्थः॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः