मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०८, ऋक् २

संहिता

इन्द्र॑स्य दू॒तीरि॑षि॒ता च॑रामि म॒ह इ॒च्छन्ती॑ पणयो नि॒धीन्व॑ः ।
अ॒ति॒ष्कदो॑ भि॒यसा॒ तन्न॑ आव॒त्तथा॑ र॒साया॑ अतरं॒ पयां॑सि ॥

पदपाठः

इन्द्र॑स्य । दू॒तीः । इ॒षि॒ता । च॒रा॒मि॒ । म॒हः । इ॒च्छन्ती॑ । प॒ण॒यः॒ । नि॒ऽधीन् । वः॒ ।
अ॒ति॒ऽस्कदः॑ । भि॒यसा॑ । तम् । नः॒ । आ॒व॒त् । तथा॑ । र॒सायाः॑ । अ॒त॒र॒म् । पयां॑सि ॥

सायणभाष्यम्

अनया तान्सरमा प्रत्युवाच। हे पनय एतन्नामका असुराः इन्द्रस्य दूतीः। सुपां सुलुगिति प्रथमैकवचनस्य सुश्छान्दसः। आहमिषिता तेनैव प्रेषिता सती चरामि। युश्मदीयं स्थानमागच्छामि। किमर्थम् । वो युष्मदीयानुष्मदीये पर्वतेऽधिष्ठापितान्महो महतो निधीन्बृहस्पतेर्गोनिधीनिच्छन्ती कामयमाना सती चरामि। किञ्चातिष्कदः। स्कन्दिर् गतिशोषणयोः। भावे क्विप्। अतिष्कन्दनादतिक्रमणज्जातेन भियासा भयेन तन्नदीजलं नः। पूजायां बहुवचनम्। मामावत्। अरक्षत्। तथा तेन प्रकारेण रसाया नद्याः पयांस्युदकान्यतरम्। तीर्णवत्यस्मि॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः