मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०८, ऋक् ३

संहिता

की॒दृङ्ङिन्द्र॑ः सरमे॒ का दृ॑शी॒का यस्ये॒दं दू॒तीरस॑रः परा॒कात् ।
आ च॒ गच्छा॑न्मि॒त्रमे॑ना दधा॒माथा॒ गवां॒ गोप॑तिर्नो भवाति ॥

पदपाठः

की॒दृङ् । इन्द्रः॑ । स॒र॒मे॒ । का । दृ॒शी॒का । यस्य॑ । इ॒दम् । दू॒तीः । अस॑रः । प॒रा॒कात् ।
आ । च॒ । गच्छा॑त् । मि॒त्रम् । ए॒न॒ । द॒धा॒म॒ । अथ॑ । गवा॑म् । गोऽप॑तिः । नः॒ । भ॒वा॒ति॒ ॥

सायणभाष्यम्

तेषाम् वाक्यम्। हे सरमे तव स्वामीन्दः कीदृक्। कियत्पराक्रमवान्। कादृशीका। तस्य कीदृशी दृष्टिः। दृष्टिरूपा सेना कियती। यस्य दूतीर्दूती त्वमिदमस्मदीयं स्थानं पराकादतिदुरादसरः आग्मः। इति तामुक्त्वेदानीं ते परस्परमाहुः। एषा सरमा गच्छाच्च। आगच्छतु च । गमेर्लेट्याडागमः। स्वामी भवाति। भवतु। न ह्येकस्या गोः किन्तु बहूनां गवां स्वामी भवतु। वृत्त्यवृत्तिभ्यां स्वामित्वं बाहुल्यं च विवक्ष्यते॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः