मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०८, ऋक् ७

संहिता

अ॒यं नि॒धिः स॑रमे॒ अद्रि॑बुध्नो॒ गोभि॒रश्वे॑भि॒र्वसु॑भि॒र्न्यृ॑ष्टः ।
रक्ष॑न्ति॒ तं प॒णयो॒ ये सु॑गो॒पा रेकु॑ प॒दमल॑क॒मा ज॑गन्थ ॥

पदपाठः

अ॒यम् । नि॒ऽधिः । स॒र॒मे॒ । अद्रि॑ऽबुध्नः । गोभिः॑ । अश्वे॑भिः । वसु॑ऽभिः । निऽऋ॑ष्टः ।
रक्ष॑न्ति । तम् । प॒णयः॑ । ये । सु॒ऽगो॒पाः । रेकु॑ । प॒दम् । अल॑कम् । आ । ज॒ग॒न्थ॒ ॥

सायणभाष्यम्

ते पुनराहुः । हे सरमे अयं निधिरस्मदीयः कोशोऽद्रिबुध्नः। बन्धबन्धने। बन्धेर्व्रधिबुधी च। उ. ३-५। इति नप्रत्ययो बुध इत्यादेशः। अद्रिर्बन्धको यस्य तादृशः। तथाहृतैर्गोभीरश्वेभिरश्वैश्च वसुभिरात्मीयैर्धनैश्चन्यृष्तो नितरां प्राप्तो भवति। ऋषी गतौ। क्तप्रत्यये श्वीदितो निष्ठायमितीट् प्रतिषेधः। गतिरनन्तर इति गतेः प्रकृतिस्वरत्वम्। सुगोपाः। गुपू रक्शणे। आयप्रत्ययान्तात्क्विप्यातोलोपयलोपौ। सुष्ठु गोपायितारो ये पणयस्तेऽसुरास्तम् निधिं रक्शन्ति। पालयन्ति। रेकु। रेकृ शङ्कायाम्। औणादिक उप्रत्ययः। शङ्कितं गोभिः शब्दायमानं पदमस्माभिः पालितं स्थानमलकं व्यर्थमेवा जगन्थ। आगतवत्यसि। गमेर्लिटि रूपम्॥७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः