मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०८, ऋक् ९

संहिता

ए॒वा च॒ त्वं स॑रम आज॒गन्थ॒ प्रबा॑धिता॒ सह॑सा॒ दैव्ये॑न ।
स्वसा॑रं त्वा कृणवै॒ मा पुन॑र्गा॒ अप॑ ते॒ गवां॑ सुभगे भजाम ॥

पदपाठः

ए॒व । च॒ । त्वम् । स॒र॒मे॒ । आ॒ऽज॒गन्थ॑ । प्रऽबा॑धिता । सह॑सा । दैव्ये॑न ।
स्वसा॑रम् । त्वा॒ । कृ॒ण॒वै॒ । मा । पुनः॑ । गाः॒ । अप॑ । ते॒ । गवा॑म् । सु॒ऽभ॒गे॒ । भ॒जा॒म॒ ॥

सायणभाष्यम्

तयैवमुक्ते सति पनयः प्रणयवाक्यमाहुः। हे सरमे त्वं दैव्येन देवसम्बन्धिना सहसा बलेन प्रबाधिता यथा तथा वलपुरं प्राप्य तत्र स्थिता गा दृष्ट्वा पुनरागच्छेति तेन प्रपीडिता त्वमेवं चेदाजगन्थ आगतवत्यसि। च्शब्दश्चेदर्थे। निपातैर्यद्यदिहन्तेति तिङो निघाताभावः। गमेर्लिटि थलि रूपम्। सह सुपेत्यत्र सहेति योगविभागात्समासः। तिङि चोदात्तवतिति गतेर्निघातः। लित्स्वरः। तर्हि त्वा त्वां स्वसारं भगिनीं कृणवै। करवैः। समूहापेक्ष्यैकवचनम्। त्वं तु पुनर्मा गाः। इन्द्रादीन्मा गच्छ। अपि तर्हि हे सुभगे सरमे ते त्वदीयानां गवां समूहं पर्वतादपगमय्य भजाम। त्वं च वयं च विभजा विभागं करवामेत्यर्थः॥९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः