मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १११, ऋक् ८

संहिता

दू॒रं किल॑ प्रथ॒मा ज॑ग्मुरासा॒मिन्द्र॑स्य॒ याः प्र॑स॒वे स॒स्रुरापः॑ ।
क्व॑ स्वि॒दग्रं॒ क्व॑ बु॒ध्न आ॑सा॒मापो॒ मध्यं॒ क्व॑ वो नू॒नमन्त॑ः ॥

पदपाठः

दू॒रम् । किल॑ । प्र॒थ॒माः । ज॒ग्मुः॒ । आ॒सा॒म् । इन्द्र॑स्य । याः । प्र॒ऽस॒वे । स॒स्रुः । आपः॑ ।
क्व॑ । स्वि॒त् । अग्र॑म् । क्व॑ । बु॒ध्नः । आ॒सा॒म् । आपः॑ । मध्य॑म् । क्व॑ । वः॒ । नू॒नम् । अन्तः॑ ॥

सायणभाष्यम्

असामपां मध्ये प्रथमाः प्रथमगामिन्यस्ता आपो दूरं किल जग्मुः। दूरमेव गताः। या आप इन्द्रस्य प्रसवे प्रेरणे। षू प्रेरने। जवसवौ चेति वक्तव्यम्। पा. ३-३-५६-४। इत्यबपवादेऽच्। थाथघञ्क्ताजबित्रकानामित्युत्तरपदान्तोदात्तत्वम्। तस्याज्ञायां सस्रुः। सरन्ति। गच्छन्ति खलु। अथ प्रत्यक्षकृतः। हे आपः आसाम् युश्माकमग्रं क्व स्वित्। कुत्र वर्तते। बध्नो मूलं च क्व। तथा वो युष्माकं मध्यं च क्व नूनमिदानीं युश्माकमन्तोऽवसानं च क्व। सर्वगतत्वादनिर्ज्ञायमानगमना आसन्नित्यर्थः। क्व। किंशब्दात् सप्तम्यर्थे किमोऽदित्यत्प्रत्ययः। द्वातीति क्वादेशः। तित्स्वरितितः। अन्तः। अमेर्गत्यर्थस्यासिहसीत्यादिना तत्प्रत्ययः॥८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११