मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११२, ऋक् ५

संहिता

यस्य॒ शश्व॑त्पपि॒वाँ इ॑न्द्र॒ शत्रू॑ननानुकृ॒त्या रण्या॑ च॒कर्थ॑ ।
स ते॒ पुरं॑धिं॒ तवि॑षीमियर्ति॒ स ते॒ मदा॑य सु॒त इ॑न्द्र॒ सोमः॑ ॥

पदपाठः

यस्य॑ । शश्व॑त् । प॒पि॒ऽवान् । इ॒न्द्र॒ । शत्रू॑न् । अ॒न॒नु॒ऽकृ॒त्या । रण्या॑ । च॒कर्थ॑ ।
सः । ते॒ । पुर॑म्ऽधिम् । तवि॑षीम् । इ॒य॒र्ति॒ । सः । ते॒ । मदा॑य । सु॒तः । इ॒न्द्र॒ । सोमः॑ ॥

सायणभाष्यम्

हे इन्द्र पपिवान्। पिबतेः क्वसौ वस्वेकाजाद्घसामितीडागमः। सोमं पीतवांस्त्वमनानुकृत्यानुकरनरहितेन सकृत्प्रहारेण शत्रुहननसमर्थेन रणाइ सांयुगीनेनायुधेन। रणशब्दात्साध्वर्थे प्राग्घितीयो यत्। यस्य यजमानस्य शत्रूञ्शश्वद्बहुवारं चकर्थ हतवानसि। कृञ् हिंसायाम् । लिटि थलि यद्योगादनिघाते लित्स्वरः। स यष्टा ते त्वदर्थं तविषीं महतीं पुरन्धिं बह्वीं स्तुतिमियर्ति। प्रेरयति। ऋ गतौ जौहात्यादिकः। अर्तिपिपर्त्योरित्यभ्यासस्येत्वम्। अभ्यासस्यासवर्न इतीयङ्। हे इन्द्र सुतोऽबिषुतः स सोमस्ते मदाय समर्थो भवति। यद्वा। स यष्टा सुतः सोमः। सुब्व्यत्ययः। अभिषुतं सोमं त्वन्मदाय प्रेरयति॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२