मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११३, ऋक् १

संहिता

तम॑स्य॒ द्यावा॑पृथि॒वी सचे॑तसा॒ विश्वे॑भिर्दे॒वैरनु॒ शुष्म॑मावताम् ।
यदैत्कृ॑ण्वा॒नो म॑हि॒मान॑मिन्द्रि॒यं पी॒त्वी सोम॑स्य॒ क्रतु॑माँ अवर्धत ॥

पदपाठः

तम् । अ॒स्य॒ । द्यावा॑पृथि॒वी इति॑ । सऽचे॑तसा । विश्वे॑भिः । दे॒वैः । अनु॑ । शुष्म॑म् । आ॒व॒ता॒म् ।
यत् । ऐत् । कृ॒ण्वा॒नः । म॒हि॒मान॑म् । इ॒न्द्रि॒यम् । पी॒त्वी । सोम॑स्य । क्रतु॑ऽमान् । अ॒व॒र्ध॒त॒ ॥

सायणभाष्यम्

दशमेऽनुवाके षोडश सुक्तानि । तत्र तमस्येति दशर्चम् प्रथमं सूक्तमैन्द्रम् । शतप्रभेदनो नाम वैरूप ऋषिः। अन्त्या त्रिष्टुप् शिष्टा जगत्यः। तथा चानुक्रान्तम्। तमस्य शतप्रभेदनस्त्रिष्टुबन्तमिति। दशरात्रस्याष्टमेऽहनि मरुत्वतीय एतत्सूक्तम्। सूत्रितं च। तमस्य द्यावापृथिवी महा इन्द्रो नृवदिति मरुत्वतीयम्। आ. ८-७। इति॥

सचेतसा सह चेत्ययन्त्यौ द्यावापृथिवी द्यावापृथिव्यौ विश्वेभिः सर्वेभिः सर्वैर्देवैः सहास्य। अन्वादेशेऽशादेशोऽनुदात्तः। पा. २-४-३२। एतस्येन्द्रस्य तं शुष्मं शत्रूणां शोषकं बलमन्वावताम्। रक्शताम्। तस्य बलं पूर्वमस्मान्रक्षतु पश्चादेते अपि रक्शतामिति भावः। अवतेर्लुङ्। क्रुण्वानो व्रुत्रवधादिकं कुर्वाणह् स महिमानमिन्द्रस्यात्मनह् पर्याप्तम् वीर्यं च यद्यदैत् प्राप्नोत्। इण् गतौ आदादिकः। आडजादीनामित्याडागमः। तदा क्रतुमान्कर्मवान् स सोमस्य पीत्वी सोमं ईत्वावर्धत। क्रियाग्रहनं कर्तव्यमिति कर्मणः सम्प्रदानसंज्ञा। चतुर्थ्यर्थे बहुलं चन्दसीति षष्ठी। पीत्वी। स्नात्व्यादयश्चेति निपातितः॥१॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४