मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११३, ऋक् ४

संहिता

ज॒ज्ञा॒न ए॒व व्य॑बाधत॒ स्पृध॒ः प्राप॑श्यद्वी॒रो अ॒भि पौंस्यं॒ रण॑म् ।
अवृ॑श्च॒दद्रि॒मव॑ स॒स्यदः॑ सृज॒दस्त॑भ्ना॒न्नाकं॑ स्वप॒स्यया॑ पृ॒थुम् ॥

पदपाठः

ज॒ज्ञा॒नः । ए॒व । वि । अ॒बा॒ध॒त॒ । स्पृधः॑ । प्र । अ॒प॒श्य॒त् । वी॒रः । अ॒भि । पौंस्य॑म् । रण॑म् ।
अवृ॑श्चत् । अद्रि॑म् । अव॑ । स॒ऽस्यदः॑ । सृ॒ज॒त् । अस्त॑भ्नात् । नाक॑म् । सु॒ऽअ॒प॒स्यया॑ । पृ॒थुम् ॥

सायणभाष्यम्

स इन्द्रो जज्ञान एव। जनी प्रादुर्भावे। छान्दसस्य लिटः कानच्। जायमान एव स्पृधः शत्रून्व्यबाध अत्यर्थमपीडयत्। स्पृधः। स्पर्ध सङ्ग्जर्षे। क्विप्। अपस्पृधेथामिति निपातनेनैकत्र सम्प्रसारणदर्शनादत्रापि भवति। अत एव वीरः समर्थः स रणं सङ्ग्राममभिलक्ष्य पौंस्यमात्मीयम् बलं प्रापश्यत्। अस्यैतावद्बलमिति प्रकर्षेण पश्यति। जानाति। किञ्चाद्रिं मेघमवृश्चत्। वर्षनार्थमच्छिनत्। अनन्तरं सस्यदः। स्यन्दू प्रस्रवणे। क्विप्। शसि न लोपः। सह स्यन्दमाना आपोऽवसृजत्। अवाङ्मुखमस्रुजत्। निरगमयत्। तथा स पृथुं महान्तं नाकं द्युलोकं स्वपस्यया। सुप आत्मनः क्यच्। अप्रत्ययादिति स्त्रियामप्रत्ययः। शोभनकर्मच्छयास्तभ्नात्। निरुद्धमकरोत्। स्तम्भिः सौत्रौ धातुः॥४॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४