मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११३, ऋक् ५

संहिता

आदिन्द्र॑ः स॒त्रा तवि॑षीरपत्यत॒ वरी॑यो॒ द्यावा॑पृथि॒वी अ॑बाधत ।
अवा॑भरद्धृषि॒तो वज्र॑माय॒सं शेवं॑ मि॒त्राय॒ वरु॑णाय दा॒शुषे॑ ॥

पदपाठः

आत् । इन्द्रः॑ । स॒त्रा । तवि॑षीः । अ॒प॒त्य॒त॒ । वरी॑यः । द्यावा॑पृथि॒वी इति॑ । अ॒बा॒ध॒त॒ ।
अव॑ । अ॒भ॒र॒त् । धृ॒षि॒तः । वज्र॑म् । आ॒य॒सम् । शेव॑म् । मि॒त्राय॑ । वरु॑णाय । दा॒शुषे॑ ॥

सायणभाष्यम्

आदपि च स इन्द्रस्तविषीर्महतीः सेनाः सत्रा सहैवापत्यत। आगच्छत्। पद गतौ दैवादिकः। वर्णव्यत्ययः। यद्वा। पत्यत इत्यैश्वर्यकर्मा। सेनानामीष्टे। तासामीश्वरोऽभवदित्यर्थः। स एव द्यावापृथिवी द्यावापृथिव्यौ वरीयः। तृतीयायाः सुः। उरुतरेण महिम्नाबाधत। तयोरन्तस्थिताञ्शत्रूनवधीदित्यर्थः। धृषितः शत्रुवधे प्रगल्भः सन्नायसमयोमयं वज्रमवाभरत्। अधारयत्। किमर्थम् । मित्राय वरुणाय दाशुषे हविर्दत्तवते यज्वने च शेवं सुखं कर्तुम्॥५॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४