या वी॒र्या॑णि प्रथ॒मानि॒ कर्त्वा॑ महि॒त्वेभि॒र्यत॑मानौ समी॒यतु॑ः ।
ध्वा॒न्तं तमोऽव॑ दध्वसे ह॒त इन्द्रो॑ म॒ह्ना पू॒र्वहू॑तावपत्यत ॥
या । वी॒र्या॑णि । प्र॒थ॒मानि॑ । कर्त्वा॑ । म॒हि॒ऽत्वेभिः॑ । यत॑मानौ । स॒म्ऽई॒यतुः॑ ।
ध्वा॒न्तम् । तमः॑ । अव॑ । द॒ध्व॒से॒ । ह॒तः । इन्द्रः॑ । म॒ह्ना । पू॒र्वऽहू॑तौ । अ॒प॒त्य॒त॒ ॥
महित्वेभिर्महंहनीयैः स्वबलैर्यतमानौ युद्धाय प्रयत्नं कुर्वन्ताविन्द्रवृत्रौ प्रथमानि पूर्वभावीनि कर्त्वा। कृत्यार्थे त्वन्प्रत्ययः। कर्तव्यानि यानि वीर्याणि समीयतुः संयोजयामासतुः। इण् गतौ। लिटि दीर्घ इणः कितिति दीर्घः। तयोर्मध्य इन्द्रेण वृत्रे हते सति ध्वान्तमतिनिबिडं तमोऽव दढ्वसे। अवध्वस्तं विनष्टमभुत्। ध्वंसेर्लिट्। कित्त्वान्नलोपः। इन्द्रस्तु मह्ना स्वमहिम्ना पूर्वहूतौ प्रथमाह्वानेऽपश्यत। आगच्छत्। शूराणां मध्येऽयमेव प्रथममाहूयमानोऽभवदित्यर्थः॥७॥