मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११५, ऋक् २

संहिता

अ॒ग्निर्ह॒ नाम॑ धायि॒ दन्न॒पस्त॑म॒ः सं यो वना॑ यु॒वते॒ भस्म॑ना द॒ता ।
अ॒भि॒प्र॒मुरा॑ जु॒ह्वा॑ स्वध्व॒र इ॒नो न प्रोथ॑मानो॒ यव॑से॒ वृषा॑ ॥

पदपाठः

अ॒ग्निः । ह॒ । नाम॑ । धा॒यि॒ । दन् । अ॒पःऽत॑मः । सम् । यः । वना॑ । यु॒वते॑ । भस्म॑ना । द॒ता ।
अ॒भि॒ऽप्र॒मुरा॑ । जु॒ह्वा॑ । सु॒ऽअ॒ध्व॒रः । इ॒नः । न । प्रोथ॑मानः । यव॑से । वृषा॑ ॥

सायणभाष्यम्

अपस्तमः। अपः शब्दस्यान्तोदात्तत्वेन मत्वर्थो लुप्त इति ज्ञायते। अन्यथापः कर्माख्यायामित्यसुनि कृत आद्युदात्तत्वमेव स्यात्। अपस्वितमः कर्मवत्तमोऽग्निर्नाम। तृतीयाया लुक्। नाम्ना नमयितृणा हविषा स्तोत्रॆण वा धायि। यजमानैर्धायते खलु। यतो दन् यष्टॄणां धनदाता। डुदाञ् दाने। हेतौ छन्दस्युभयथेति शतुरार्धधातुकत्वेनाकारलोपः। अत एव शओप्ऽसम्भवः। योऽग्निर्भस्मना भासकेन प्रकाशकेन तेजसा दाता दन्तेन च वना वनान्यरण्यानि सं युवते संयुनक्ति। सन्दहतिति यावत्। यु मिश्रणामिश्रणयोः। व्यत्ययेन शः। आत्मनेपदं च। दता। दन्तशब्दस्य पद्दन्नित्यादिना दद्भावः। ऊडिदमिति विभक्तेराद्युदात्तत्वम्। किञ्चाभिप्रमुरा। मूर्छा मोहसमुच्छ्राययोः। अस्मात् क्विपि राल्लोप इति छकारलोपः। मुर संवेष्टन इत्यस्माद्वा क्विप्। क्रुदुत्तरपदप्रकृतिस्वरत्वम्। अभितः समुच्छ्रितेनोद्यतेन यद्वा सर्वतो हविर्भिः संवेष्टितेन जुह्वैतन्नामकेन पात्रविशेषेण् स्वध्वरः शोभनयज्ञोऽग्निरदनीये हविषि चरतीति शेषः। तत्र दृष्टान्तः। इनो न समर्थः प्रोथमानः पर्याप्तः पुष्टाङ्गो वृषा यवसे न यथा वृषभो घासादिषु चरति॥२॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८