मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११५, ऋक् ३

संहिता

तं वो॒ विं न द्रु॒षदं॑ दे॒वमन्ध॑स॒ इन्दुं॒ प्रोथ॑न्तं प्र॒वप॑न्तमर्ण॒वम् ।
आ॒सा वह्निं॒ न शो॒चिषा॑ विर॒प्शिनं॒ महि॑व्रतं॒ न स॒रज॑न्त॒मध्व॑नः ॥

पदपाठः

तम् । वः॒ । विम् । न । द्रु॒ऽसद॑म् । दे॒वम् । अन्ध॑सः । इन्दु॑म् । प्रोथ॑न्तम् । प्र॒ऽवप॑न्तम् । अ॒र्ण॒वम् ।
आ॒सा । वह्नि॑म् । न । शो॒चिषा॑ । वि॒ऽर॒प्शिन॑म् । महि॑ऽव्रतम् । न । स॒रज॑न्तम् । अध्व॑नः ॥

सायणभाष्यम्

हे स्तोतारः वो यूयं तमग्निमभिष्टुत। कीदृशम् । विं च पक्षिणमिव द्रुषदम्। द्रुर्वृक्षः। अरणिलक्षने वृक्षे सीदन्तं देवं द्योतमानं अन्धस इन्दुं स्तोतॄणामन्नस्य क्लेदयितारं प्रापयितारम् । उन्देरिच्चादेः। उ. १-१३। इत्युप्रत्ययः। निदित्यनुवृत्तेराद्युदात्तत्वम्। प्रोथन्तं शब्दायमानं प्रवपन्तमत्यर्थं वनानां दाहकम् अर्णवम् । अर्णसः सलोपश्चेति मत्वर्थीयो वः। अग्नौ प्रास्ताहुतिरित्यादिक्रमेणोदकवन्तं आसा। आस्य शब्दस्य पद्दन्नित्यादिनासन्नादेशः। वर्नलोपश्छान्दसः। आस्येन वह्निं हविषां वोढारम्। यद्वा। आसा। अन्तिकनामैतत्। देवानां समीपे हविषाम् प्रापकम्। वहने दृष्टान्तः। वह्निं न। वह्निर्वा अनड्वान्। तै. ब्रा. १-८-२-५। इति। श्रवणादनड्वाहमिव वहने समर्थम् शोछिषा स्वदीप्त्या विरप्शिनम्। महन्नामैतत्। महान्तं महिव्रतं न महाकर्माणमादित्यमिवाध्वनः सरजन्तम्। मार्गन्सह युगपदेव रञ्जयन्तम्। एवं गुणमग्निमभिष्तुत। सरजन्तम्। रन्ज रागे। रञ्जेः शतरि रञ्जेश्च। पा. ६-४-२६। इति नलोपे सहस्य सभावे च कृते रूपम्। यद्वा। सरतिति सरः। सरस्योदकस्य जनयितारम्। जनेस्तप्रत्यये कृते रूपमिति वा। व्युत्पत्त्यनवधारणादनवग्रहः॥३॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८