मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११५, ऋक् ५

संहिता

स इद॒ग्निः कण्व॑तम॒ः कण्व॑सखा॒र्यः पर॒स्यान्त॑रस्य॒ तरु॑षः ।
अ॒ग्निः पा॑तु गृण॒तो अ॒ग्निः सू॒रीन॒ग्निर्द॑दातु॒ तेषा॒मवो॑ नः ॥

पदपाठः

सः । इत् । अ॒ग्निः । कण्व॑ऽतमः । कण्व॑ऽसखा । अ॒र्यः । पर॑स्य । अन्त॑रस्य । तरु॑षः ।
अ॒ग्निः । पा॒तु॒ । गृ॒ण॒तः । अ॒ग्निः । सू॒रीन् । अ॒ग्निः । द॒दा॒तु॒ । तेषा॑म् । अवः॑ । नः॒ ॥

सायणभाष्यम्

कण्वतमः। कणतेः शब्दार्थादशिप्रुषीत्यादिना क्वन्प्रत्ययः। अतिशयेन स्तोता अत एव कण्वसखा। बहुव्रीहित्वात्समासान्तोदात्ताभावः। कण्वाः स्तोतारः सखायो यस्य स तादृशोऽर्यः। स्वामिन्यन्तोदात्तत्वं वक्तव्यम् । पा. ३-१-१०३-१। इत्यन्दोदात्तत्वम्। स्वामी सर्वस्येश्वरः स इत् स एवाग्निः परस्य च प्रकृष्टस्य अ बाह्यस्यान्तरस्याव्यवहितस्य समीपे वर्तमानस्य शत्रोस्तरुषस्तारयिता विनाशयिता भवति। सोऽग्निर्गृणतः स्तोतॄनस्मान्पातु। रक्षतु। गॄ शब्दे क्र्यादिकः। शतुरनुमो नद्यजादी इति विभक्तेरुदात्तत्वम्। तथा सूरीन्। षू प्रेरने। हविषाम् प्रेरयितॄनस्मान्रक्षतु। किञ्च तेषामेषां नोस्माकमवो रक्षणमन्नं वाग्निर्ददातु। प्रयच्छतु॥५॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८