ऊर्जो॑ नपात्सहसाव॒न्निति॑ त्वोपस्तु॒तस्य॑ वन्दते॒ वृषा॒ वाक् ।
त्वां स्तो॑षाम॒ त्वया॑ सु॒वीरा॒ द्राघी॑य॒ आयु॑ः प्रत॒रं दधा॑नाः ॥
ऊर्जः॑ । न॒पा॒त् । स॒ह॒सा॒ऽव॒न् । इति॑ । त्वा॒ । उ॒प॒ऽस्तु॒तस्य॑ । व॒न्द॒ते॒ । वृषा॑ । वाक् ।
त्वाम् । स्तो॒षा॒म॒ । त्वया॑ । सु॒ऽवीराः॑ । द्राघी॑यः । आयुः॑ । प्र॒ऽत॒रम् । दधा॑नाः ॥
ऊर्जो नपात्। नपादित्यपत्यनाम। अन्नस्य पुत्र। अन्नं वा आज्यमिति श्रवणात्तेन प्रवृद्ध्यमानत्वात्। बलस्य वा पुत्र। सुबामन्त्रिते पराङ्गवत्सर इत्यूर्ज इत्यस्य पराङ्गवद्भावेनामन्त्रितत्व आमन्त्रितस्य चेति षाष्ठिकमाद्युदात्तत्वम्। हे सहसावन् सहस्विन्नग्ने त्वा त्वामित्येवमुपस्तुतस्यैतन्नामकस्यर्षेर्मम व्रुशा हविषाम् वर्षयित्री तैः सहिता वाक् स्तुतिर्वदन्ते। स्तौति। वृषा। इगुपधज्ञेति कः। अजाद्यतष्टाप्। किञ्च वयं त्वां स्तोषाम। स्तवाम। स्तौतेर्लेट्यडागमः। ततस्त्वया सुवीराः शोभनपुत्राः स्याम। द्राघीयो दीर्घतममायुर्जिवनं प्रतरमत्यर्थं दधाना धारयन्तो भवेम॥८॥