मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११६, ऋक् २

संहिता

अ॒स्य पि॑ब क्षु॒मत॒ः प्रस्थि॑त॒स्येन्द्र॒ सोम॑स्य॒ वर॒मा सु॒तस्य॑ ।
स्व॒स्ति॒दा मन॑सा मादयस्वार्वाची॒नो रे॒वते॒ सौभ॑गाय ॥

पदपाठः

अ॒स्य । पि॒ब॒ । क्षु॒ऽमतः॑ । प्रऽस्थि॑तस्य । इन्द्र॑ । सोम॑स्य । वर॑म् । आ । सु॒तस्य॑ ।
स्व॒स्ति॒ऽदाः । मन॑सा । मा॒द॒य॒स्व॒ । अ॒र्वा॒ची॒नः । रे॒वते॑ । सौभ॑गाय ॥

सायणभाष्यम्

हे इन्द्र क्षुमतः स्तुतियुक्तस्य यद्वा हवीरूपान्नवतः प्रस्थितस्य हविर्धानादुत्तरवेदिं प्रति प्रस्थापितस्य सुतस्याभिशुतस्य सोमस्य वरं वरणीयं त्वदीयं भागमाभिमुख्येन पिब। प्रस्थितस्य। तिष्थतेः कर्मणि निष्था। गतिरनन्तर इति गतेः प्रकृतिस्वरत्वम्। ततः स्वस्तिदाह् कल्याणस्य दाता त्वं मनसान्तःकरणेन मादयस्व। हृष्टो भव। यद्वा। अस्मानपि हृष्तान्कुरु। तदेवोच्यते। रेवते धनवते सौभगाय सौभाग्याय तदस्मभ्यं दातुमर्वाचीनोऽभिमुखाञ्चनो भव। विभाषाञ्चेरदिक्स्त्रियूमिति खः। रयिशब्दान्मतुपश्छन्दसीर इति वत्वम्। रयेर्मतौ बहुलमिति सम्प्रसारणम्। पूर्वरूपत्वे गुणः। सौभगाय। उद्गात्रादिषु सुभग मन्त्र इति पठ्यते। तस्योत्तरपदस्य हृद्भगेति वृद्धिर्नेष्यते सर्वविधीनां छन्दसि विकल्पितत्वात्। ञित्स्वरेनाद्युदात्तत्वम्॥२॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०