मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११६, ऋक् ७

संहिता

इ॒दं ह॒विर्म॑घव॒न्तुभ्यं॑ रा॒तं प्रति॑ सम्रा॒ळहृ॑णानो गृभाय ।
तुभ्यं॑ सु॒तो म॑घव॒न्तुभ्यं॑ प॒क्वो॒३॒॑ऽद्धी॑न्द्र॒ पिब॑ च॒ प्रस्थि॑तस्य ॥

पदपाठः

इ॒दम् । ह॒विः । म॒घ॒ऽव॒न् । तुभ्य॑म् । रा॒तम् । प्रति॑ । सम्ऽरा॑ट् । अहृ॑णानः । गृ॒भा॒य॒ ।
तुभ्य॑म् । सु॒तः । म॒घ॒ऽव॒न् । तुभ्य॑म् । प॒क्वः॑ । अ॒द्धि । इ॒न्द्र॒ । पिब॑ । च॒ । प्रऽस्थि॑तस्य ॥

सायणभाष्यम्

हे मघवन्धनवन् साम्राट् सम्यग्राजमान सर्वेषामीश्वरेति वा इदम् सोमादिलक्षनम् रातमस्माभिरात्तं हविर्हे इन्द्र तुभ्यमहृणानोऽक्रुध्यन् प्रतिगृभाय। प्रतिगृहाण। ग्रहेर्लोटि श्नाप्रत्ययस्य च्छन्दसि शायजपिति शायजादेशः। हृग्रहोर्भ इति भः। सन्निपातपरिभाषाया अनित्यत्वाद्धेर्लुक्। हे मघवन् तुभ्यमेवायम् सोमह् सुतः। ङयि च। पा. ६-१-२१२। इत्याद्युदात्तत्वम्। तुभ्यमेवायं पुरोडाशादिः पक्वः। हे इन्द्र तम् पुरोडाशमद्धि। भक्षय। किञ्च प्रस्थितस्य हविर्धानादुत्तरवेदिं प्रति प्रस्थापितं सोमं पिब। वाक्यभेदादनिघातः। यद्वा। आमन्त्रितस्याविद्यमानत्वेन तिङ उत्तरत्त्वादनिघातः॥७॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१