मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११७, ऋक् ३

संहिता

स इद्भो॒जो यो गृ॒हवे॒ ददा॒त्यन्न॑कामाय॒ चर॑ते कृ॒शाय॑ ।
अर॑मस्मै भवति॒ याम॑हूता उ॒ताप॒रीषु॑ कृणुते॒ सखा॑यम् ॥

पदपाठः

सः । इत् । भो॒जः । यः । गृ॒हवे॑ । ददा॑ति । अन्न॑ऽकामाय । चर॑ते । कृ॒शाय॑ ।
अर॑म् । अ॒स्मै॒ । भ॒व॒ति॒ । याम॑ऽहूतौ । उ॒त । अ॒प॒रीषु॑ । कृ॒णु॒ते॒ । सखा॑यम् ॥

सायणभाष्यम्

अन्वयमुखेन प्रशम्सति। स इत् स एव भोजो दाता खलु यो गृहवे। ग्रहेर्मृगय्वादित्वात्। उ. १-३८। कुप्रत्ययः। प्रतिग्रहीत्रेऽन्नकामायान्नं याचमानाय चरते गृहमागतवते कृशाय दारिद्र्येणैतादृशायातिथयेऽन्नं ददाति प्रयच्छति। अभ्यस्तानामादिरित्याद्युदात्तत्वम्। यामहूतौ। यामा गन्तारो देवाः। अत्र यातेरर्तिस्तुसुहुसृ। उ. १-१३९। इत्यादिना मन्प्रत्ययः। त आहू यन्तेऽत्रेति यामहूतिर्यज्ञः। तस्मिन्नस्मैदात्रे फलमरमलं पर्याप्तं भवति। कामप्रदानं भवतीत्यर्थः। उतापि चापरीशु। केवलमामकेति ङीप्। पा. ४-१-३०। अन्यासु शात्रवीषु सेनासु सखायं कृणुते। तद्वदाचरतीत्यर्थः। तस्य सर्वे सखाय एव न शत्रव इत्यर्थः॥३॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२