मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११७, ऋक् ६

संहिता

मोघ॒मन्नं॑ विन्दते॒ अप्र॑चेताः स॒त्यं ब्र॑वीमि व॒ध इत्स तस्य॑ ।
नार्य॒मणं॒ पुष्य॑ति॒ नो सखा॑यं॒ केव॑लाघो भवति केवला॒दी ॥

पदपाठः

मोघ॑म् । अन्न॑म् । वि॒न्द॒ते॒ । अप्र॑ऽचेताः । स॒त्यम् । ब्र॒वी॒मि॒ । व॒धः । इत् । सः । तस्य॑ ।
न । अ॒र्य॒मण॑म् । पुष्य॑ति । नो इति॑ । सखा॑यम् । केव॑लऽअघः । भ॒व॒ति॒ । के॒व॒ल॒ऽआ॒दी ॥

सायणभाष्यम्

अदातारम् दूषयति। अप्रचेता अप्रकृष्टज्ञानः दाने चेतो मनो यस्य न भवति समोघं व्यर्थमेवान्नं विन्दते। लभते। विद्लृ लाभे तौदादिकः। शे मुचादीनामिति नुमागमः। इदं सत्यं यथार्थमेवेति ब्रवीमि। ऋषिरहं वदामि। न केवलं व्यर्थं किन्तु तस्य पुरुषस्य स वध इद्वध एवान्नं परामृशतः। तच्छब्दस्य वधसामानाधिकरण्यात्पुल्लिङ्गता। यथा णेरणावित्यत्र। पा. १-३-६७। यत्कर्म स एव कर्तेति। अथवा स निरर्थको वध एव यः पुरुषोऽर्यमणं। उपलक्षणमिदम्। सर्वान्देवानर्यमादीन्न पुष्यति हविष्प्रदानेन न पोषयति नो नापि सखायं समानख्यानमभ्यागतमतिथिं मित्रवर्गं च न पोषयति। पुष पुष्टौ दैवादिकः। यच्छब्दाध्याहारादनिघातः। अत एव केवलादी। अदेः सुप्यजातौ। पा. ३-२-७८। इति णिनिः। अत उपधालक्शणावृद्धिः। केवलमसाक्षिकमन्नं भुञ्जानः स केवलाघो भवति। केवलपापवान्भवति। अघमेव केवलं तस्य शिष्यते। ऐहिकामुश्मिकमिति । तस्माद्यथाकथञ्चिद्दातव्य मित्यभिप्रायः॥६॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३