मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११७, ऋक् ७

संहिता

कृ॒षन्नित्फाल॒ आशि॑तं कृणोति॒ यन्नध्वा॑न॒मप॑ वृङ्क्ते च॒रित्रै॑ः ।
वद॑न्ब्र॒ह्माव॑दतो॒ वनी॑यान्पृ॒णन्ना॒पिरपृ॑णन्तम॒भि ष्या॑त् ॥

पदपाठः

कृ॒षन् । इत् । फालः॑ । आशि॑तम् । कृ॒णो॒ति॒ । यन् । अध्वा॑नम् । अप॑ । वृ॒ङ्क्ते॒ । च॒रित्रैः॑ ।
वद॑न् । ब्र॒ह्मा । अव॑दतः । वनी॑यान् । पृ॒णन् । आ॒पिः । अपृ॑णन्तम् । अ॒भि । स्या॒त् ॥

सायणभाष्यम्

कृषन् क्रुषिं कुर्वन्फाल आशितं कर्षकं भोक्तारं कृणोति। करोति। तथाध्वानम् मार्गं यन्। इणः शतरि नुमागमः। गच्छन्पुरुशश्चरित्रैरात्मीयैर्गमनैरपवृङ्क्ते। स्वामिनो धनमावर्जयति। व्रुजी वर्जने आदादिकः। अनुदात्तेत्। वदञ्शास्त्रार्थं ब्रुवाणो ब्रह्मा ब्राह्मणोऽवदतः शास्त्रार्थमब्रुवानाज्जनाद्वनीयान्। सम्भक्तृतमः प्रियकरो भवति। वनतेस्तृजन्तस्येयसुनि तुरिष्थेमेयः स्विति तृचो लोपः। ते यथा स्वकर्मणि प्रवर्तमानाः परेषामुपकारकाः तथा पृणन् दाता पुरुषोऽपृणन्तमदातारं जनमभ्यभिलक्ष्यापिः स्यात्। बन्धुर्भवेत्॥७॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३