मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११८, ऋक् ७

संहिता

अदा॑भ्येन शो॒चिषाग्ने॒ रक्ष॒स्त्वं द॑ह ।
गो॒पा ऋ॒तस्य॑ दीदिहि ॥

पदपाठः

अदा॑भ्येन । शो॒चिषा॑ । अग्ने॑ । रक्षः॑ । त्वम् । द॒ह॒ ।
गो॒पाः । ऋ॒तस्य॑ । दी॒दि॒हि॒ ॥

सायणभाष्यम्

हे अग्ने त्वमादाभ्येनाहिंस्येन शोचिषा तेजसा रक्षः। जातावेकवचनम्। सर्वान्राक्षसान्दह। विनाशय। किञ्चर्तस्य यज्ञस्य गोपा गोपयिता सन् दीदिहि। दीप्यस्व॥७॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५