मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११९, ऋक् १२

संहिता

अ॒हम॑स्मि महाम॒हो॑ऽभिन॒भ्यमुदी॑षितः ।
कु॒वित्सोम॒स्यापा॒मिति॑ ॥

पदपाठः

अ॒हम् । अ॒स्मि॒ । म॒हा॒ऽम॒हः । अ॒भि॒ऽन॒भ्यम् । उत्ऽई॑षितः ।
कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥

सायणभाष्यम्

अभिनभ्यं नाभौ मध्यस्थाने भवं नभ्यमन्तरिक्षम्। उगवादिभ्यो यत्। पा. ५-१-२। इति यत्प्रत्ययः। तत्रैव पाठान्नभादेशश्च। लक्षनेनाभिप्रती आभिमुख्ये। पा. २-१-१४। इत्यव्ययीभावसमासस्वरः। अन्तरिक्षमभ्युदीषित उद्गतः सुर्यात्माहं महामहोऽस्मि। महतामपि महानस्मि। यद्वा। महत्प्रभूतं महस्तेजो यस्य। प्रभूततेजस्कोऽस्मि। आन्महत इत्यात्वम्॥१२॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७