वा॒वृ॒धा॒नः शव॑सा॒ भूर्यो॑जा॒ः शत्रु॑र्दा॒साय॑ भि॒यसं॑ दधाति ।
अव्य॑नच्च व्य॒नच्च॒ सस्नि॒ सं ते॑ नवन्त॒ प्रभृ॑ता॒ मदे॑षु ॥
व॒वृ॒धा॒नः । शव॑सा । भूरि॑ऽओजाः । शत्रुः॑ । दा॒साय॑ । भि॒यस॑म् । द॒धा॒ति॒ ।
अवि॑ऽअनत् । च॒ । वि॒ऽअ॒नत् । च॒ । सस्नि॑ । सम् । ते॒ । न॒व॒न्त॒ । प्रऽभृ॑ता । मदे॑षु ॥
शवसा बलेन ववृधानो वर्धमानः अत एव भुर्योजा बहुबलः शत्रुः शातयितेन्द्रो दासायोपक्षयकारिणे शत्रवे भियसम् भीतिं दधाति। विदधाति। करोति। अव्यनत्। विविधमनिति श्वसितीति व्यनत् प्रानवज्जङ्गमम्। तद्विलक्षनमव्यनत् स्थावतम्। तदुभयमपि सस्नि संस्नातमिन्द्रेण सम्यक्भोधितं भवति। स्नातेरादृगमहन इति। व्यत्ययेन कर्मणि किन्प्रत्ययः। यद्वा। अन्तर्णीतण्यर्थात्कर्तर्येव किन्। वृष्ट्यादिना सम्यक् स्नापयिता शोधयिता भवति। न लोकाव्ययेति कर्मणि ष्ष्थ्याः प्रतिषेधः। शिष्टः पादः प्रत्यक्षकृतः। हे इन्द्र ते तव मदेषु हर्षेषु हविषा स्तुत्या च जातेषु सत्सु प्रभृता प्रभृतानि प्रकर्षेण धृतानि पोषितानि वा सर्वाणि भूतजातानि संनवन्त। सङ्गच्छन्ते। स्तोतुं हवींशि च दातुं समूहीभवन्तीत्यर्थः। नवतिर्गतिकर्मा। प्रभृता। बिभर्तेः कर्मणि निष्था। शेश्छन्दसि बहुलमिति शेर्लोपः। गतिरनन्तर इति गतेः प्रकृतिस्वरत्वम्॥२॥