मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२०, ऋक् ६

संहिता

स्तु॒षेय्यं॑ पुरु॒वर्प॑स॒मृभ्व॑मि॒नत॑ममा॒प्त्यमा॒प्त्याना॑म् ।
आ द॑र्षते॒ शव॑सा स॒प्त दानू॒न्प्र सा॑क्षते प्रति॒माना॑नि॒ भूरि॑ ॥

पदपाठः

स्तु॒षेय्य॑म् । पु॒रु॒ऽवर्प॑सम् । ऋभ्व॑म् । इ॒नऽत॑मम् । आ॒प्त्यम् । आ॒प्त्याना॑म् ।
आ । द॒र्ष॒ते॒ । शव॑सा । स॒प्त । दानू॑न् । प्र । सा॒क्ष॒ते॒ । प्र॒ति॒ऽमाना॑नि । भूरि॑ ॥

सायणभाष्यम्

स्तुषेय्यं स्तोतव्यम्। स्तवः क्सेय्यश्छन्दसि। उ. ३-९९। इत्यौणादिकः क्सेय्यप्रत्ययः। पुरुवर्पसं बहुरूपम्रुभ्वमुरु भासमानमुरुभूतं वेनतममतिशयेनेश्वरमाप्त्यानामाप्तव्यानां मध्य आत्प्यमाप्तव्यं एवंभूतमिन्द्रं स्त्ॐईति शेषः। य मिन्रः शवसा बलेन सप्त सप्त सङ्ख्याकान्दानान्दानवान्वृत्रनमुचिकुयवादीना दर्षये आदृणाति हिनस्ति। दॄ विदारणे। अस्माल्लेटि व्यत्ययेनात्मने पदम्। लेटोऽडाटावित्यडागमः। सिब्बहुलमिति सिप्। तथा प्रतिमानान्यसुरानां प्रतिरूपाणि भूति भूरीणि बहून्यसुरबलानि प्र साक्शते य इन्द्रः प्रसहते। यद्वा। बहूनि प्रतिमानन्यसुराणां स्थानानि प्रसाक्षते प्राप्नोति। साक्षतिराप्नोतिकर्मेति यास्कः। नि. ११-१२। षह अभिभवे। लेट्यडागमः। सिब्बहुलमिति सिप्। टत्वकत्वषत्वानि। छान्दसो दीर्घः॥६॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः