मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२०, ऋक् ९

संहिता

ए॒वा म॒हान्बृ॒हद्दि॑वो॒ अथ॒र्वावो॑च॒त्स्वां त॒न्व१॒॑मिन्द्र॑मे॒व ।
स्वसा॑रो मात॒रिभ्व॑रीररि॒प्रा हि॒न्वन्ति॑ च॒ शव॑सा व॒र्धय॑न्ति च ॥

पदपाठः

ए॒व । म॒हान् । बृ॒हत्ऽदि॑वः । अथ॑र्वा । अवो॑चत् । स्वाम् । त॒न्व॑म् । इन्द्र॑म् । ए॒व ।
स्वसा॑रः । मा॒त॒रिभ्व॑रीः । अ॒रि॒प्राः । हि॒न्वन्ति॑ । च॒ । शव॑सा । व॒र्धय॑न्ति । च॒ ॥

सायणभाष्यम्

महान्गुणैरधिकोऽथर्वा। उपचाराज्जन्ये जनकशब्दः। अथर्वणः पुत्रो बृहद्दिवाख्य ऋषिर्देवेशु मध्य इन्द्रमेव प्रति स्वामात्मीयां तन्वं विस्तृतां स्तुतिमेवमवोचत्। प्रोक्तवान्। वचेर्लुङ्यस्यतिवक्तीत्यादिना च्लेरङादेशः। वच उमित्युमागमः। पादादित्वान्न निहन्यते। अपि चैनमेवेन्द्रं मारिभ्वरीर्मातरि सकलस्य भूतजातस्य निर्मात्र्यां भूमौ भवन्त्यो वर्तमानाः। भवतेरन्येभ्योऽपि द्रुश्यन्त इति वनिप्। वनो र चेति ङीभ्रेफौ। जसि वा छन्दसीति पुर्वसवर्णदीर्घः। प्रुषोदरादित्वाद्वर्णलोपः। अरिप्रा अपापाः स्वसारः स्वयमेव सरन्त्यः परस्परं भगिन्यो वा गङ्गाद्या नद्यो हिन्वन्ति। यागसाधनत्वेन प्रीणयन्ति। हिविः प्रीणनार्थः। भौवादिकः। व्यत्ययेन शः। इदित्त्वान्नुम्। यद्वा। हि गतौ वृद्धौ च। स्वादिभ्यः श्नुः। वृष्त्यर्थं तमिन्द्रमुपगच्छन्ति। गत्वा च शवसा यागजन्येन बलेन्द् तं वर्धयन्ति च॥९॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः