मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२३, ऋक् १

संहिता

अ॒यं वे॒नश्चो॑दय॒त्पृश्नि॑गर्भा॒ ज्योति॑र्जरायू॒ रज॑सो वि॒माने॑ ।
इ॒मम॒पां सं॑ग॒मे सूर्य॑स्य॒ शिशुं॒ न विप्रा॑ म॒तिभी॑ रिहन्ति ॥

पदपाठः

अ॒यम् । वे॒नः । चो॒द॒य॒त् । पृश्नि॑ऽगर्भाः । ज्योतिः॑ऽजरायुः । रज॑सः । वि॒ऽमाने॑ ।
इ॒मम् । अ॒पाम् । स॒म्ऽग॒मे । सूर्य॑स्य । शिशु॑म् । न । विप्राः॑ । म॒तिऽभिः॑ । रि॒ह॒न्ति॒ ॥

सायणभाष्यम्

अयं वेन इत्यष्टर्चमेकादशं सूक्तं भार्गवस्य वेनस्यार्षं त्रैष्टुभम्। वेनो देवता। तथा चानुक्रान्तम्। अयं वेनो वैन्यमिति। प्रवर्ग्येऽभिष्टव आद्यानुवक्तव्या। सूत्रितम्। स्रक्वे द्रप्सस्यायं वेनश्चोदयत्पृश्निगर्भाः। आ. ४-६। इति। वैश्वदेवशस्त्रेऽप्यषा धाय्या। सूत्रितं च। तक्षन्रथमयं वेनश्चोदयत्पृश्निगर्भाः। आ. ५-१८। इति॥

वेनः कान्त एतत्संज्ञो मध्यस्थानो देवो ज्योतिर्जरायुः। ज्योतिर्द्योतमानो मेघो जरायुः। उदरे बर्घो येन वेष्टितोऽवतिष्ठते तज्जरायु। तदिव वेष्टको यस्य स तथोक्तः। मेघमध्ये गर्भवदवस्थित इत्यर्थः। मिमाने। मिमीयन्ते निर्मीयन्तेऽस्मिन्नाप इति मिनानमन्तरिक्षम्। रजस उदकस्य निर्मातर्यन्तरिक्षे स्थितः सन्नयं वेनः पृश्निगर्भाः। पृश्निरादित्यः तस्य गर्भभूताः। यद्वा पृश्नयः सप्तोज्ज्वलवर्णाः सूर्यरश्मयः। तेषां गर्भभूताः अन्तरिक्षस्था अपश्चोदयत्। पृथिवीं प्रति प्रेरयति। अपामुदकानामान्तरिक्ष्याणां सूर्यस्य च सङ्गमे सङ्ग्मनेन्ऽतरिक्षे स्थितमिमं वेनं विप्रा मेधाविनः सोतारो मतिभिः स्तुतिभी रिहन्ति। रिहतिरर्चतिकर्मा। अर्चन्ति। पूजयन्ति। स्तुवन्तीत्यर्थः। शिशुं न। यथा बालं पुत्रं मातापित्राद्या बान्धवाः स्तुतिपदैरुपलालयन्ति तद्वत्॥१॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः