मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२४, ऋक् १

संहिता

इ॒मं नो॑ अग्न॒ उप॑ य॒ज्ञमेहि॒ पञ्च॑यामं त्रि॒वृतं॑ स॒प्तत॑न्तुम् ।
असो॑ हव्य॒वाळु॒त नः॑ पुरो॒गा ज्योगे॒व दी॒र्घं तम॒ आश॑यिष्ठाः ॥

पदपाठः

इ॒मम् । नः॒ । अ॒ग्ने॒ । उप॑ । य॒ज्ञम् । आ । इ॒हि॒ । पञ्च॑ऽयामम् । त्रि॒ऽवृत॑म् । स॒प्तऽत॑न्तुम् ।
असः॑ । ह॒व्य॒ऽवाट् । उ॒त । नः॒ । पु॒रः॒ऽगाः । ज्योक् । ए॒व । दी॒र्घम् । तमः॑ । आ । अ॒श॒यि॒ष्ठाः॒ ॥

सायणभाष्यम्

इमं नो अग्न इति नवर्चं द्वादशं सूक्तम्। द्वितीयाध्याभिस्तिसृभिरग्निऋषिर्भूत्वा स्वात्मानं देवतारूपिणमस्तौत्। अतस्तासां स एवर्षिर्देवता च। शिष्टाभिरग्निवरुणसोमा अस्तुवन्। अतस्तासां षण्णां ते ऋषयः। आद्याग्नेयी। नवमीं द्रदेवत्या। शिष्टासु चतसृषु लिङ्गोक्तदेवता। सप्तमी जगती शिष्टास्त्रिष्टुभः। तथाचानुक्रान्तम्। इमं नो नवैन्द्र्युत्तमा निहवोऽग्निवरुणसोमानामाद्याग्नेयी तिस्रश्चाग्नेरात्मस्तवः शिष्टा यथानिपातं सप्तमी जगतीति। गतो विनियोगः॥

भ्रातृषु हविर्वहनेषु मृतेषु मरणभीत्या कृतपलायनं गुहायां निगूढमग्निमग्न्याद्याः सूक्तद्रष्टार ऋषयोऽनयाह्वयन्। हे अग्ने नोस्माकमिमं यज्ञमुपेहि। उपागच्छ। प्राप्नुहि। मा पलायिष्थाः। कीदृशम् । पञ्चयामं यजमानपञ्चमैरृत्विग्भिर्नियमितम्। यद्वा। धानाकरम्भादिभिः पञ्चभिर्हविर्भिः पञ्चभिः प्रयाजैर्वा प्राप्तम्। त्रिवृतं पाकयज्ञहविर्यज्ञसोमयज्ञभेदेन सवनत्रयात्मना वा त्रिगुणं सप्ततन्तुम् सप्त तन्तनस्तनितरः कर्मणां विस्तारयितारो होत्राद्याः सप्त वषट्कर्तारो यस्य। यद्वा। अग्निष्तोमोऽत्यग्निष्टोम उक्थ्यः षोळशी वाजपेयोऽतिरात्रोऽप्तोर्याम इति सप्तधा विस्तीर्यमाणम् । ईदृशं यज्ञमुपगत्य चानन्तरं नोऽस्माकं हव्यवाड्धव्यानां हविषं वोढासः। भव॥ अस्तेर्लेट्यडागमः। उतापि च नोऽस्माकं पुरोगाः पुरतो गन्ता भव। जनसनखनक्रमगमो विट्। विड्वरोरनुनासिकस्यादित्यात्वम्। ज्योक् चिरकालमेवास्मान्परित्यज्य दीर्घं तमो महदन्धकारं गुहायामाशयिष्ठाः। आस्थाय शयनमकार्षीः। इतअ ऊर्ध्वं तस्मात्स्त्थानादस्मानागच्छेत्यर्थः॥१॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः