मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२४, ऋक् ३

संहिता

पश्य॑न्न॒न्यस्या॒ अति॑थिं व॒याया॑ ऋ॒तस्य॒ धाम॒ वि मि॑मे पु॒रूणि॑ ।
शंसा॑मि पि॒त्रे असु॑राय॒ शेव॑मयज्ञि॒याद्य॒ज्ञियं॑ भा॒गमे॑मि ॥

पदपाठः

पश्य॑न् । अ॒न्यस्याः॑ । अति॑थिम् । व॒यायाः॑ । ऋ॒तस्य॑ । धाम॑ । वि । मि॒मे॒ । पु॒रूणि॑ ।
शंसा॑मि । पि॒त्रे । असु॑राय । शेव॑म् । अ॒य॒ज्ञि॒यात् । य॒ज्ञिय॑म् । भा॒गम् । ए॒मि॒ ॥

सायणभाष्यम्

मम स्थानभूता या पृथिवी ततोऽन्यस्या वयाया गन्तव्याया दिवः सम्बन्धिनमतिथिं सततगामिनं सूर्यं पश्यञ्जानन् सूर्यस्य गतिमनुसृत्य वसन्तादिकाल ऋतस्य यज्ञस्य धाम धामानि शरीराणि पुरूणि बहूनि वि मिमे। निर्ममे। निष्पादयामि। ततः पित्रे पितृभूताय द्युलोकवर्तिने देवजनायासुराय शत्रुक्षेपणकुशलाय शेवं सुखमुद्दिश्य होता भूत्वाहमुक्थानि शंसामि। यत एवं तस्मात्कारणादयज्ञियाद्यज्ञानर्हात्प्रदेशान्निर्गत्य यज्ञियं यज्ञार्हं वेदिलक्षनं भूभाग्गं हविर्लक्षणं वैमि। प्राप्नोमि। यज्ञशब्दादर्हार्थे यज्ञर्त्विग्भ्यां घखञाविति घप्रत्ययः॥३॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः