मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२४, ऋक् ४

संहिता

ब॒ह्वीः समा॑ अकरम॒न्तर॑स्मि॒न्निन्द्रं॑ वृणा॒नः पि॒तरं॑ जहामि ।
अ॒ग्निः सोमो॒ वरु॑ण॒स्ते च्य॑वन्ते प॒र्याव॑र्द्रा॒ष्ट्रं तद॑वाम्या॒यन् ॥

पदपाठः

ब॒ह्वीः । समाः॑ । अ॒क॒र॒म् । अ॒न्तः । अ॒स्मि॒न् । इन्द्र॑म् । वृ॒णा॒नः । पि॒तर॑म् । ज॒हा॒मि॒ ।
अ॒ग्निः । सोमः॑ । वरु॑णः । ते । च्य॒व॒न्ते॒ । प॒रि॒ऽआव॑र्त् । रा॒ष्ट्रम् । तत् । अ॒वा॒मि॒ । आ॒ऽयन् ॥

सायणभाष्यम्

अस्मिन्वेदिलक्षणस्थाने बह्वीः समाः सम्वत्त्सरानकरम्। अकार्षम्। चिरकालं न्यवात्सम्। तत्रेन्द्रं वृणानः सम्भजमानः पितरमुत्पादकमरण्यात्मकं जहामि। परित्यजामि। यदा त्वहं देवेभ्यो निर्गत्य गुहायाम् निगूढः तदा ते देवा अग्निः सोमो वरुणश्च च्यवन्ते। राष्ट्रात्प्रच्युता अभवन्। एकस्याप्यग्नेर्हविर्वोढृत्वरूपेण देवतात्मना च पृथक्त्वात्परोक्शनिर्देशः। आयन् पुनरागच्छन्नहं यद्राष्ट्रमुसुरैरपहृतं पर्यावर्त् पर्यावर्तमानम् मदभिमुखं पुनरावर्तमानं तद्राष्ट्रं राज्यं यज्ञभूमिमवामि। असुरेभ्यो रक्शामि। पर्यावर्त्। उपसृष्ताद्वृतेरन्येभ्योऽपि दृश्यन्त इति विच्। रात्सस्येति नियमात्संयोगान्तस्येति लोपाभावः॥४॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः