मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२४, ऋक् ६

संहिता

इ॒दं स्व॑रि॒दमिदा॑स वा॒मम॒यं प्र॑का॒श उ॒र्व१॒॑न्तरि॑क्षम् ।
हना॑व वृ॒त्रं नि॒रेहि॑ सोम ह॒विष्ट्वा॒ सन्तं॑ ह॒विषा॑ यजाम ॥

पदपाठः

इ॒दम् । स्वः॑ । इ॒दम् । इत् । आ॒स॒ । वा॒मम् । अ॒यम् । प्र॒ऽका॒शः । उ॒रु । अ॒न्तरि॑क्षम् ।
हना॑व । वृ॒त्रम् । निः॒ऽएहि॑ । सो॒म॒ । ह॒विः । त्वा॒ । सन्त॑म् । ह॒विषा॑ । य॒जा॒म॒ ॥

सायणभाष्यम्

इयमृगग्नेर्वरुणस्य वा वाक्यम् । हे सोम इदं स्वरयं द्युलोकः यद्वायं शोभनारणः सूर्य इदमिदिदमेव वामं वननीयमास। बभूव। इदंशब्देन प्रकृतं स्वः परामृश्यते। अयं च प्रकाशः प्रकाशस्याधारभूत उरु विस्तीर्णमिदमन्तरिक्षं हे सोम एतत्सर्वं पश्य। अत एवास्मिन्समय आवां व्रुत्रं हनाव। हिनसाव। तदर्थं निरेहि। निष्क्रम्यागच्छ। हविः सन्तं लतारूपेण हविर्भवन्तं देवतात्मानं त्वां हविषा चरुपुरोडाशादिना वयं यजाम॥६॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०